| Bát-nhã tâm kinh (Video) |
|
|
|
| Phật giáo và đời sống - Video Phật giáo | |
| Viết bởi thienminh | |
|
Bát-nhã-ba-la-mật-đa tâm kinh, tên thông dụng Bát-nhã tâm kinh gọi tắc là Tâm kinh (Phạn ngữ: Prajñā Pāramitā Hridaya Sūtra, Prajnaparamitahridaya sutra, tiếng Anh: Heart of Perfect Wisdom Sutra, tên thông dụng Heart sutra, tiếng Hoa: 般若波羅蜜多心經). Là bài kinh ngắn, khoảng 260 chữ của Phật giáo Đại thừa. Tâm kinh được xem là tinh hoa của của bộ kinh Đại Bát Nhã gồm 600 cuốn. Tâm kinh là một trong hai bài kinh được đọc tụng và biết đến nhiều nhất bởi các Phật tử Việt Nam, Triều Tiên, Nhật Bản và Trung Quốc. Tâm kinh bát nhã tiếng Phạn (Devanāgarī). Bản ngắn आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शरिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्नमनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥ तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपार्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।। तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ।। Bản đầy đủ एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन। तेन खलु समयेन भगवान् गम्भीरावसंबोधं नाम समाधिं समापन्नः। तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं व्यवलोकयति स्म। पञ्च स्कन्धांस्तांश्च स्वभावशून्यं व्यवलोकयति॥ अथायुष्मान् शारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वमेतदवोचत्- यः कश्चित् कुलपुत्रो [वा कुलदुहिता वा अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, कथं शिक्षितव्यः ? एवमुक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं शारिपुत्रमेतदवोचत्- यः कश्चिच्छारिपुत्र कुलपुत्रो व कुलदुहिता वा [अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, तेनैवं व्यवलोकितव्यम्-पञ्च स्कन्धांस्तांश्च स्वभावशून्यान् समनुपश्यति स्म। रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम्। एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता। एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः। तस्मात्तर्हि शारिपुत्र शून्यतायां न रूपम्, न वेदना, स संज्ञा, न संस्काराः, न विज्ञानम्, न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनो न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्मः। न चक्षुर्धातुर्यावन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः। न विद्या नाविद्या न क्षयो यावन्न जरामरणं न जरामरणक्षयः, न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वेन बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः। चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। तस्माद् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रः अनुत्तरमन्त्रः असमसममन्त्रः सर्वदुःखप्रशमनमन्त्रः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः। तद्यथा- गते गते पारगते पारसंगते बोधि स्वाहा। एवं शारिपुत्र गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्त्वेन॥
इदमवोचद्भगवान्। आनन्दमना आयुष्मान् शारिपुत्रः आर्यावलोकितेश्वरश्च बोधिसत्त्वः सा च सर्वावती परिषत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्॥ (Trích:en.wikisource.org/wiki/Heart_Sutra) Phiên âm theo chuẩn Cacu prajñāpāramitāhṛdayasūtram oṃ namo bhagavatyai āryaprajñāpāramitāyai āryāvalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitācaryāṃ caramāṇo vyavalokayati sma : pañca skandhās tāṃś ca svabhāvaśūnyān paśyati sma. iha śariputra rūpaṃ śūnyatā śūnyataiva rūpaṃ, rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpam; evam eva vedanā saṃjñā saṃskāra vijñānam. iha śariputra sarvā dharmāḥ śūnyatā lakṣaṇā, anutpannā aniruddhā amalā avimalā anūnā aparipūrṇāḥ. tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ ; na caksuḥ śrotra ghrāṇa jihvā kāya manāṃsi ; na rūpa śabda gandha rasa spraṣṭavya dharmāḥ ; na cakṣurdhātur yāvam na manovijñānadhatūḥ ; nāvidyā nāvidyākṣayo yavām na jarāmaraṇaṃ na jarāmaraṇakṣayo ; na duḥkha samudaya nirodha mārgā, na jñānaṃ, na prāptir na aprāptiḥ. tasmācchāriputra aprāptitvād bodhisattvasya prajñāpāramitām āśritya viharaty acittāvaraṇaḥ ; cittāvaraṇanāstitvād atrasto viparyāsātikrānto niṣṭhā nirvāṇaḥ. tryadhvavyavasthitāḥ sarvā buddhāḥ prajñāpāramitām āśrityānuttarāṃ samyaksambodhim abhisambuddhāḥ. tasmāj jñātavyam: prajñāpāramitā mahā mantro mahā vidyā mantro ‘nuttara mantro ‘samasama mantraḥ, sarva duḥkha praśmanaḥ, satyam amithyatvāt. prajñāpāramitāyām ukto mantraḥ. tadyathā: gate gate pāragate pārasaṃgate bodhi svāhā. iti prajñāpāramitā hṛdayaṃ samāptam. (Trích:fr.wikipedia.org/wiki/S%C5%ABtra_du_C%C5%93ur) Tâm kinh bát-nhã tiếng Siddhaṃ
(Thi Vũ. Kinh Ruột Tuệ Giác Siêu Việt. Nxb Rừng Trúc - Paris 2517) Giọng nam và nữ Dim lights Embed Embed this video on your site Giọng nữ Dim lights Embed Embed this video on your site Prajna-paramita Hrdaya Sutram (The Heart Sutra) Giọng ca sĩ Imee Ooi Dim lights Embed Embed this video on your site ______Tham khảo: http://en.wikisource.org/wiki/Heart_Sutra http://en.wikipedia.org/wiki/Heart_Sutrahttp://fr.wikipedia.org/wiki/S%C5%ABtra_du_C%C5%93ur http://vi.wikipedia.org/wiki/B%C3%A1t-nh%C3%A3-ba-la-m%E1%BA%ADt-%C4%91a_t%C3%A2m_kinh http://www.visiblemantra.org/heartsutra.html http://www.theosophy-nw.org/theosnw/world/asia/as-heart.htm
|




